|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.18. अध्यायः 018
Mahabharata - Strii Parva - Chapter Topics
कृष्णम्प्रति गान्धारीवचनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
गान्धार्युवाच। 11-18-0x(5353)(65316)
पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान्।
गदया भीमसेनेन भूयिष्ठं निहतान्रणे॥ 11-18-1(65317)
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः।
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः॥ 11-18-2(65318)
प्रासादतलचारिण्यश्चरमैर्भूषणान्वितैः।
कायेनाद्य स्पृशन्तीमां रुधिरार्द्रां वसुन्धराम्॥ 11-18-3(65319)
कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान्।
दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत॥ 11-18-4(65320)
एषाऽन्या त्वनवद्याङ्गी करसम्मितमध्यमा।
घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता॥ 11-18-5(65321)
दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम्।
राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति॥ 11-18-6(65322)
भ्रातॄंश्चान्याः पितॄंश्चान्याः पुत्रांश्च निहतान्भुवि।
दृष्ट्वा परिपतन्त्येषाः प्रगृह्य सुमहाभुजान्॥ 11-18-7(65323)
मध्यमानां तु नारीणां वृद्धानां चापराजित।
आक्रन्दं हतबन्धूना दारुणे वैशसे शृणु॥ 11-18-8(65324)
रथनीडानि देहांश्च हतानां गजवाजिनाम्।
आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज॥ 11-18-9(65325)
अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम्।
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति॥ 11-18-10(65326)
पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ।
एताभिर्निरवद्याभिर्मया चैवाल्पपुण्यया।
यदिदं धर्मराजेन घातितं नो जनार्दन॥ 11-18-11(65327)
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः॥ 11-18-12(65328)
प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः।
कुलेषु जाता हीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः॥ 11-18-13(65329)
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः।
सारस्य इव वाशन्त्यः पतिताः पश्य माधव॥ 11-18-14(65330)
फुल्लुपद्यप्रकाशानि पुण्डरीकाक्ष योषिताम्।
अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान्॥ 11-18-15(65331)
सेर्ष्याणां मम पुत्राणां वासुदेवावरोधनम्।
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः॥ 11-18-16(65332)
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यवर्चसः।
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान्॥ 11-18-17(65333)
शिरस्त्राणानि चैतानि पुत्राणां मे महीतले।
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव॥ 11-18-18(65334)
एष दुःशासनः शेते शूरेणामित्रघातिना।
पीतशोणिxx सर्वाङ्गो युधि भीमेन पातितः॥ 11-18-19(65335)
गदया भीमसेनेन पश्य माधव मे सुतम्।
द्यूतक्लेशाननुस्मृत्य द्रौपदीचोदितेन च॥ 11-18-20(65336)
उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता।
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन॥ 11-18-21(65337)
सहैव सहदेवेन नकुलेनार्जुनेन च।
दासीभूताऽसि पाञ्चालि क्षिप्रं प्रविश नो गृहान्॥ 11-18-22(65338)
ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम्।
मृत्युपाशपरिक्षिप्तां द्रौपदीं पुत्र वर्जय॥ 11-18-23(65339)
निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम्।
क्षिप्रमेनं परित्यज्य पुत्र संशाम्य पाण्डवैः॥ 11-18-24(65340)
न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम्।
वाङ्गराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्॥ 11-18-25(65341)
तानेवं रहसि क्रुद्धो वाक्शल्यानवधारयन्।
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव॥ 11-18-26(65342)
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ।
निहतो भीमसेनेन सिहेनेव महागजः॥ 11-18-27(65343)
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः।
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे॥ ॥ 11-18-28(65344)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि अष्टादशोऽध्यायः॥ 18 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-18-5 करसम्मितमध्यमा मुष्टिप्रमितमध्या॥ 11-18-23 क्षिप्तं शकुनिं पुत्र वजेयेति झ.पाठः॥ 11-18-18 अष्टादशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|